|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.182. अध्यायः 182
Mahabharata - Udyoga Parva - Chapter Topics
रामेण रथादधः पातितस्य भीष्मस्य दिव्यपुरुषैः समाश्वासनम् ॥ 1 ॥
भीष्मेण रामस्य रथादधः पातनम् ॥ 2 ॥
समुद्बुध्य पुनर्युयुत्सो रामस्य महर्षिभिर्युद्धात्प्रतिनिवर्तनम् ॥ 3 ॥

Mahabharata - Udyoga Parva - Chapter Text
भीष्म उवाच। 5-182-0x(3916)(38173)
ततः प्रभाते राजेन्द्र सूर्ये विमलतां गते।
भार्गवस्य मया सार्धं पुनर्युद्धमवर्तत ॥ 5-182-1(38174)
ततोऽभ्रान्ते रथे तिष्ठन्रामः प्रहरतां वरः।
ववर्ष शरजालानि मयि मेध इवाचले ॥ 5-182-2(38175)
ततः सूतो मम सुहृच्छरवर्षेण ताडितः।
अपयातो रथोपस्थान्मनो मम विषादयन् ॥ 5-182-3(38176)
ततः सूतो ममात्यर्थं कश्मलं प्राविशन्महत् ।
पृथिव्यां च शराघातान्निपपात मुमोह च ॥ 5-182-4(38177)
ततः सूतो जहात्प्राणान्रामबाणप्रपीडितः।
मुहूर्तादिव राजेन्द्र मां च भीराविशत्तदा ॥ 5-182-5(38178)
ततः सूते हते तस्मिन्क्षिपतस्तस्य मे शरान् ।
प्रमत्तमनसो रामः प्राहिणोन्मृत्युसंमितम् ॥ 5-182-6(38179)
ततः सूतव्यसनिनं विप्लुतं मां स भार्गवः ।
शरेणाभ्यहनद्गाढं विकृष्य बलवद्धनुः ॥ 5-182-7(38180)
स मे भुजान्तरे राजन्निपत्य रुधिराशनः।
मयैव सह राजेन्द्र जगाम वसुधातलम् ॥ 5-182-8(38181)
मत्वा तु निहतं रामस्ततो मां भरतर्षभ ।
मेघवद्विननादोच्चैर्जहृषे च पुनः पुनः ॥ 5-182-9(38182)
तथा तु पतिते राजन्मयि रामो मुदा युतः।
उदक्रोशन्महानादं सह तैरनुयायिभिः ॥ 5-182-10(38183)
मम तत्राभवन्ये तु कुरवः पार्श्वतः स्थिताः ।
आगता अपि युद्धं तञ्जनास्तत्र दिदृक्षवः ।
आर्तिं परमिकां जग्मुस्ते तदा पतिते मयि ॥ 5-182-11(38184)
ततोऽपश्यं पतितो राजसिंह
द्विजानष्टौ सूर्यहुताशनाभान् ।
ते मां समन्तात्परिर्वाय तस्थुः
स्वबाहुभिः परिधार्याजिमध्ये ॥ 5-182-12(38185)
रक्ष्यमाणश्च तैर्विप्रैर्नाहं भूमिमुपास्पृशम् ।
अन्तरिक्षे धृतो ह्यस्मि तैर्विप्रैर्बान्धवैरिव ॥ 5-182-13(38186)
श्वसन्निवान्तरिक्षे च जलबिन्दुभिरुक्षितः ।
ततस्ते ब्राह्मणा राजन्नब्रुवन्परिगृह्य माम् ॥ 5-182-14(38187)
मा भैरिति समं सर्वे स्वस्ति तेऽस्त्विति चासकृत्।
ततस्तेषामहं वाग्भिस्तर्पितः सहसोत्थितः ।
मातरं सरितां श्रेष्ठामपश्यं रथमास्थिताम् ॥ 5-182-15(38188)
हयाश्च मे संगृहीतास्तयाऽऽस-
न्महानद्या संयति कौरवेन्द्र।
पादौ जनन्याः प्रतिगृह्य चाहं
तथा पितॄणां रथमभ्यरोहम् ॥ 5-182-16(38189)
ररक्ष सा मां सरथं हयांश्चोपस्काराणि च।
तामहं प्राञ्जलिर्भूत्वा पुनरेव व्यसर्जयम् ॥ 5-182-17(38190)
ततोऽहं स्वयमुद्यम्य हयांस्तान्वातरंहसः।
अयुध्यं जामदग्न्येन निवृत्तेऽहनि भारत ॥ 5-182-18(38191)
ततोऽहं भरतश्रेष्ठ वेगवन्तं महाबलम् ।
अमुञ्चं समरे बाणं रामाय हृदयच्छिदम् ॥ 5-182-19(38192)
ततो जगाम वसुधां मम बाणप्रपीडितः ।
जानुभ्यां धनुरुत्सृज्य रामो मोहवशं गतः ॥ 5-182-20(38193)
ततस्तस्मिन्निपतिते रामे भूरिसहस्रदे ।
आवव्रुर्जलदा व्योम क्षरन्तो रुधिरं बहु ॥ 5-182-21(38194)
उल्काश्च शतशः पेतुः सनिर्घाताः सकम्पनाः। 5-182-22bअर्कं च सहसा दीप्तं स्वर्भानुरभिसंवृणोत् ॥ 5-182-22(38195)
ववुश्च वाताः परुषाश्चलिता च वसुंधरा ।
गृध्रा बलाश्च कङ्काश्च परिपेतुर्गुदा युताः ॥ 5-182-23(38196)
दीप्तायां दिशि गोमायुर्दारुणं मुहुरुन्नदत् ।
अनाहता दुन्दुभयो विनेदुर्भृशनिःस्वनाः ॥ 5-182-24(38197)
एतदौत्पातिकं सर्वं घोरमासीद्भयंकरम् ।
विसंज्ञकल्पे धरणीं गते रामे महात्मनि ॥ 5-182-25(38198)
ततो वै सहसोत्थाय रामो मामभ्यवर्तत ।
पुनर्युद्धाय कौरव्य विह्वलः क्रोधमूर्छितः ॥ 5-182-26(38199)
आददानो महाबाहुः कार्मुकं तालसन्निभम् ।
ततो मय्याददानं तं राममेव न्यवारयन् ॥ 5-182-27(38200)
महर्षयः कृपायुक्ताः क्रोधाविष्टोऽपि भार्गवः ।
समाहरदमेयात्मा शरं कालानलोपमम् ॥ 5-182-28(38201)
सतो रविर्मन्दमरीचिमण्डलो
जगामास्तं पांसुपुञ्जावगूढः
निशा व्यगाहत्सुखशीतमारुता
ततो युद्धं प्रत्यवहारयाव- ॥ 5-182-29(38202)
एवं राजन्नवहारो बभूव
ततः पुनर्विमलेऽभूत्सुघोरम्।
कल्यंकल्यं विंशतिं वै दिनानि
तथैव चान्यानि दिनानि त्रीणि ॥ ॥ 5-182-30(38203)
इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि द्व्यशीत्यधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-182-2 अभ्रान्ते मेघमण्डलसमीपे ॥ 5-182-12 द्विजान् ब्राह्मणरूपधरान् वसून् ॥ 5-182-21 भूयिप्तहस्नदे स्वर्णसहस्राणां दातरि ॥ 5-182-22 सकम्पनाः सविद्युतः ॥ 5-182-23 बलाः बलाकाः ॥ 5-182-30 कल्यंकल्यं प्रातःप्रातः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|